(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.76. अध्यायः 076
Mahabharata - Drona Parva - Chapter Topics
अर्जुनेन श्रीकृष्णम्प्रति स्वसामर्थ्यकथनम्॥ 1 ॥


Mahabharata - Drona Parva - Chapter Text

अर्जुन उवाच। 7-76-0x(4458)(47556)
षड्रथान्धार्तराष्ट्रस्य मन्यसे यान्बलाधिकान्।
तेषां वीर्यं ममार्धेन न तुल्यमिति मे मतिः॥ 7-76-1(47557)
अस्त्रमस्त्रेण सर्वेषामेतेषां मधुसूदन।
मया द्रक्ष्यसि निर्भिन्नं जयद्रथवधैषिणा॥ 7-76-2(47558)
द्रोणस्य मिषतश्चाहं सगणस्य विपश्चितः।
मूर्धानं सिन्धुराजस्य पातयिष्यामि भूतले॥ 7-76-3(47559)
यदि साध्याश्च रुद्राश्च वसवश्च सहाश्विनः।
मरुतश्च सहेन्द्रेण विश्वेदेवाः सहेश्वराः॥ 7-76-4(47560)
पितरः सहगन्धर्वाः सुपर्णाः सागराद्रयः।
द्यौर्वियत्पृथिवी चेयं दिशश्च सदिगीश्वराः॥ 7-76-5(47561)
ग्राम्यारण्यानि भूतानि स्थावराणि चराणि च।
त्रातारः सिन्धुराजस्य भवन्ति मधुसूदन॥ 7-76-6(47562)
तथापि बाणैर्निहतं श्वो द्रष्टासि रणे मया।
सत्येन च शपे कृष्ण तथैवायुधमालभे॥ 7-76-7(47563)
यस्य गोप्ता महेष्वासो द्रोणः पापस्य दुर्मतेः।
तमेव प्रथमं द्रोणमभियास्यामि केशव॥ 7-76-8(47564)
तस्मिन्युद्धमिदं बद्धं मन्यते स सुयोधनः।
तस्मात्तस्यैव सेनाग्रं भित्त्वा यास्यामि सैन्धवम्॥ 7-76-9(47565)
द्रष्टासि श्वो महेष्वासान्नाराचैस्तिग्मतेजितैः।
शृङ्गाणीव गिरेर्वज्रैर्दार्यमाणान्मया युधि॥ 7-76-10(47566)
नरनागाश्वदेहेभ्यो विस्रविष्यति शोणितम्।
पतद्ध्यः पतितेभ्यश्च विभिन्नेभ्यः शितैः शरैः॥ 7-76-11(47567)
गाण्डीवप्रेषिता बाणा मनोऽनिलसमा जवे।
नृनागाश्वान्विदेहासून्कर्तारश्च सहस्रशः॥ 7-76-12(47568)
शक्राद्भीष्मात्कृपाद्द्रोणाद्देवाद्रुद्राच्च यन्मया।
उपात्तमस्त्रं घोरं तद्दष्टारोऽत्र नरा युधि॥ 7-76-13(47569)
ब्राह्मेणास्त्रेण चास्त्राणि हन्यमानानि संयुगे।
मया द्रष्टाऽसि सर्वेषां सैन्धवस्याभिरक्षिणाम्॥ 7-76-14(47570)
शरवेगसमुत्कृत्तै राज्ञां केशव मूर्धभिः।
आस्तीर्यमाणां पृथिवीं द्रष्टाऽसि श्वो मया युधि॥ 7-76-15(47571)
क्रव्यादांस्तर्पयिष्यामि द्रावयिष्यामि शात्रवान्।
सुहृदो नन्दयिष्यामि प्रमथिष्यामि सैन्धवम्॥ 7-76-16(47572)
बह्वागस्कृत्कुसंबन्धी पापदेशसमुद्भवः।
मया सैन्धवको राजा हतः स्वाञ्शोचयिष्यति॥ 7-76-17(47573)
सर्वे क्षीरान्नभोक्तारः पापाचारा रणाजिरे।
मया सराजका बाणैर्हता नश्यन्ति सैन्धवाः॥ 7-76-18(47574)
तथा प्रभाते कर्ताऽस्मि यथा कृष्ण सुयोधनः।
नान्यं धनुर्धरं लोके मंस्यते मत्समं युधि॥ 7-76-19(47575)
`गाण्डीवं च धनुर्दिव्यं योद्धारं च धनञ्जम्।
यन्तारं च हृषीकेशं कोऽतिवर्तेत संयुगे'॥ 7-76-20(47576)
तव प्रसादाद्भगवन्किंनावाप्तं रणे मम।
अविषह्यं हृषीकेश किं जानन्मां विगर्हसे॥ 7-76-21(47577)
यथा लक्ष्म स्थिरं चन्द्रे समुद्रे च यथा जलम्।
एवमेतां प्रतिज्ञां मे सत्यां विद्धि जनार्दन॥ 7-76-22(47578)
मावमंस्था ममास्त्राणि मावमंस्थाश्च गाण्डिवम्।
मावमंस्था बलं बाह्वोर्मावमंस्था धनञ्जयम्॥ 7-76-23(47579)
गाण्डीवं च धनुर्दिव्यं योद्धा चाहं नरर्षभ।
त्वं च यन्ता हृषीकेश किन्नु स्यादजितं मया॥ 7-76-24(47580)
यथाभियाय सङ्ग्रमं न जितो वै जयामि च।
तेन सत्येन सङ्ग्रामे हतं विद्धि जयद्रथम्॥ 7-76-25(47581)
`त्वं च माधव सर्वं तत्तथा प्रतिविधास्यसि।
यथा रिपूणां मिषतां प्रमथिष्यामि सैन्धवम्'॥ 7-76-26(47582)
ध्रुवं वै ब्राह्मणे सत्यं ध्रुवा साधुषु सन्नतिः।
श्रीर्ध्रुवाऽपि च दक्षेषु ध्रुवो नारायणे जयः॥ 7-76-27(47583)
सञ्जय उवाच। 7-76-28x(4459)
एवमुक्त्वा हृषीकेशं स्वयमात्मानमात्मना।
सन्दिदेशार्जुनो नर्दन्वासविः केशवं प्रभुम्॥ 7-76-28(47584)
यथा प्रभातां रजनीं कल्पितः स्याद्रथोत्तमः।
तथा कार्यं त्वया कृष्ण प्रतिज्ञा स्याद्यथा ध्रुवा॥ ॥ 7-76-29(47585)

इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि षट्सप्ततितमोऽध्यायः॥ 76 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-76-9 तस्मिन् द्रोणे। युद्धं बद्धमिव बद्धं एकान्तजयेन स्थिरीकृतम् ॥ 5-76-76 षट्सप्ततितमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.